|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.39. अध्यायः 039
Mahabharata - Adi Parva - Chapter Topics
एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-39-0x(182)(1767)
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम।
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन्॥ 1-39-1(1768)
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत।
जरत्कारुं स्वसारं वै परं हर्षमवाप च॥ 1-39-2(1769)
ततो नातिमहान्कालः समतीत इवाभवत्।
अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम्॥ 1-39-3(1770)
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः।
समाप्यैव च तत्कर्म पितामहमुपागमन्॥ 1-39-4(1771)
देवा वासुकिना सार्धं पितामहमथाव्रुवन्।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्॥ 1-39-5(1772)
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः॥ 1-39-6(1773)
हितो ह्ययं सदास्मकं प्रियकारी च नागराट्।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम्॥ 1-39-7(1774)
ब्रह्मोवाच। 1-39-8x(183)
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः।
एलापत्रेण नागेन यदस्याभिहितं पुरा॥ 1-39-8(1775)
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः॥ 1-39-9(1776)
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु॥ 1-39-10(1777)
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा॥ 1-39-11(1778)
सौतिरुवाच। 1-39-12x(184)
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः॥ 1-39-12(1779)
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्॥ 1-39-13(1780)
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति॥ ॥ 1-39-14(1781)
इति श्रीमनमहाभारते आदिपर्वणि आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-39-4 नेत्रं रज्जुः॥ 1-39-13 जरत्कारौ जरत्कारुऋषिनिमित्तं। तदन्वेषणायेत्यर्थः॥ एकोनचत्वारिंशोऽध्यायः॥ 39 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|